१९९५ - २०१५ - विंशत्याब्दिकाचरणम्अमेरिकादेशे संस्कृतभारत्याः पादार्पणम् १९९५-तमे वर्षे आसीत्। तदारभ्य अद्यावधि विंशतिवर्षाणि अतीतानि । ततः अमेरिकादेशस्य सर्वे संस्कृतभारतीकार्यकर्तारः वैभवोपेतं विंशत्यब्दसमाचरणं विधातुं निश्चितवन्तः ।
१९९५-तमे वर्षे श्रीमता कृष्णशास्त्रिमहोदयेन अमेरिकादेशे बहुत्र संभाषणशिबिराणि पाठितानि । गतेभ्यः विशत्याः वर्षेभ्यः देशे सर्वत्र संस्कृतकार्याणि क्रमेण संवर्धन्ते। अद्य अमेरिका-केनेडा-देशयोः चत्वारिंशदधिकानि केन्द्राणि सन्ति यत्र जनाः संस्कृतं पठन्तः पाठयन्तः च संस्कृतेन संभाषन्ते। विंशत्यब्दसमाचरणं निमित्तीकृत्य आवर्षं देशे विभिन्नाः कार्यक्रमाः आयोज्यन्ते। तेषु कार्यक्रमेषु संस्कृतेन Podcast-वाणी अन्यतमा। प्रतिपक्षं विख्याताः संस्कृतज्ञाः विविधान् विषयान् संबोधयन्ति। तानि भाषणानि Podcasts विभागे उपलभ्यन्ते। |
1995 to 2015 - 20th Anniversary Celebration
Samskrita Bharati’s promotion of Samskritam started in the United States from 1995. In 2015, Samskrita Bharati volunteers are celebrating the 20th year of Samskritam in the United States.
Shri. Krishna Shastri Mahodaya visited the United States in 1995 and conducted 'Speak Samskritam' classes in various cities across the United States. The acceptance of Samskritam has been tremendous in the past 20 years. There are more than 40 centers in the United States and Canada, where people are speaking and learning in Samskritam. As part of the 20th year celebrations, various activities have been planned by different centers. Prominent Sanskrit speakers would be talking about various topics in Samskritam. Those speeches are available in the Podcasts section. |
विंशत्याब्दिकाचरणार्थं राष्ट्रीयकार्यक्रमाः ।
Various National Activities being planned for 20th year celebrations.
Promotions