विंशत्यब्दाचरणारणं निमित्तीकृत्य Toronto-नगरे संस्कृतोत्सवः
Toronto-केन्द्रे September 26 तमे दिनाङ्के संस्कृतोत्सवकार्यक्रमः आयोजितः आसीत्। Mississauga-नगरस्य मुख्यग्रन्थालयस्य सभागृहे कार्यकर्तारः संस्कृतानुरागिणः च सर्वे सम्भूय सांस्कृतिकदिनमिति आचरितवन्तः । तत्र सम्भाषणवर्गस्य संवादमालायाः च दृश्यमुद्रणानां प्रदर्शनम् 'अमरवाणी' इत्येतस्मात् जालपुटात् प्राप्तानां संस्कृतगीतानां श्रावणं 'samskritam.rocks' जालपुटात् स्वीकृतानां परिचयात्मकदृश्यमुद्रणानां प्रदर्शनं च आयोजितमासीत्। एतस्य कार्यक्रमस्य अङ्गत्वेन 'संस्कृते विज्ञानम्' इत्येतस्य भित्तिफलकानां प्रदर्शनमपि सज्जीकृतमासीत् । अन्ते बालकेन्द्रस्य छात्राः संस्कृतगीतानि गीतवन्तः। कार्यक्रमेऽस्मिन् चत्वारिंशत् जनाः सोत्साहं भागम् ऊढवन्तः।