अमेरिकादेशस्य संस्कृतभारत्याः विंशत्यब्दपूर्तिम् अधिकृत्य Pittsburgh-नगरे संस्कृतमेला आयोजिता सेप्टेम्बर्-मासस्य नवदशे दिनाङ्के । यथा प्रयागे, तथा Pittsburgh-नगरे अपि तिसृणां नदीनां सङ्गमः वर्तते इत्यतः आयोजितायाः मेलायाः त्रिवेणी इति नाम कृतम् । एषा षड्घण्टात्मकमेला स्थानीये हिन्दु-जैन्-देवालये सोत्साहं सानन्दं सकौतूहलं च पर्ववत् प्रावर्तत । संस्कृतभारती-अमेरिकायाः सङ्घटनमन्त्री श्रीमान् पद्मकुमारः कार्यक्रमस्य मुख्यवक्ता आसीत् । तेन सह ज्येष्ठः वैद्यः श्रीमान् क्रिस्-गोपालः, श्रीमान् धर्मराजः च सपत्नीकौ दीपज्वालनेन सरस्वतीदेवीं संप्रार्थ्य मेलायाः कार्यक्रमाणां शुभारम्भं कृतवन्तः । कार्यक्रमेषु अनेकानि मधुराणि गीतानि, कानिचन आकर्षकरूपकाणि, सुन्दराणि नृत्यानि च प्रदर्शितानि । विशिष्य बालैः दर्शिताः कार्यक्रमाः सर्वेभ्यः अरोचन्त । बालानां विनोदाय पिन्याटा-क्रीडा आयोजिता आसीत् यत्र संस्कृतशब्दसहित-चाकलेहैः पूरितः वायुगोलः उपयुक्तः । कार्यक्रमाणामभ्यन्तरे एव मेहन्दी-लेपनमपि प्रवर्तमानम् आसीत् । एकः पुस्तकभाण्डारः अपि प्रतिष्ठापितः आसीत् यस्मिन् भिन्नानि पुस्तकानि बालेभ्यश्च प्रौढेभ्यश्च स्तरशः उत्तमरीत्या वर्गीकृतानि आसन् । आहत्य द्विशताधिकाः संस्कृतप्रेमिणः आगत्य संस्कृतवातावरणम् आस्वादितवन्तः । दैवानुग्रहेण, Pittsburgh-नगरस्य देवालयानां (Chinmaya Mission Sanjeevani, Hindu Jain Temple, Ramakrishna Vedanta Ashrama, Sri Shirdi Sai Baba Temple, Sri Venkateshwara temple) सहयोगेन, अनेकेषां कार्यकर्तॄणां परिश्रमेण च इयं त्रिवेणी-संस्कृतमेला सफलतया सञ्जाता ।
विंशत्यब्दाचरणारणं निमित्तीकृत्य संस्कृतोत्सवकार्यक्रमाः । सेप्टम्बर्-मासात् आरभ्य विंशतिः केन्द्रेषु संस्कृतोत्सवकार्यक्रमाः आयोज्यन्ते । Irvine-केन्द्रे September 12-तमे दिनाङ्के प्रथमः संस्कृतोत्स्वकार्यक्रमः आयोजितः आसीत्। स्थानीयकार्यकर्तृभिः बालकेन्द्रस्य छात्रैश्च रूपकाणि गीतानि इत्यादीनि दर्शितानि। उत्तरकार्णाटकप्रान्तस्य सङ्घटनमन्त्री श्रीरामकृष्णमहोदयः सन्दर्भेऽस्मिन् भारतीयसंस्कृतेः संरक्षणार्थं संस्कृतपठनम् अनिवार्यं, सर्वैः भारतीयमूलैः तन्निमित्तम् आद्यता कल्पनीया चेति कार्यक्रमे उपस्थितान् सर्वान् प्रेरितवान्। |
#SBUSA ProgramsPlease find various programs that were conducted in USA & Canada for the 20th year celebrations. Archives
October 2015
Categories
All
|