अमेरिकादेशस्य संस्कृतभारत्याः विंशत्यब्दपूर्तिम् अधिकृत्य Pittsburgh-नगरे संस्कृतमेला आयोजिता सेप्टेम्बर्-मासस्य नवदशे दिनाङ्के । यथा प्रयागे, तथा Pittsburgh-नगरे अपि तिसृणां नदीनां सङ्गमः वर्तते इत्यतः आयोजितायाः मेलायाः त्रिवेणी इति नाम कृतम् । एषा षड्घण्टात्मकमेला स्थानीये हिन्दु-जैन्-देवालये सोत्साहं सानन्दं सकौतूहलं च पर्ववत् प्रावर्तत । संस्कृतभारती-अमेरिकायाः सङ्घटनमन्त्री श्रीमान् पद्मकुमारः कार्यक्रमस्य मुख्यवक्ता आसीत् । तेन सह ज्येष्ठः वैद्यः श्रीमान् क्रिस्-गोपालः, श्रीमान् धर्मराजः च सपत्नीकौ दीपज्वालनेन सरस्वतीदेवीं संप्रार्थ्य मेलायाः कार्यक्रमाणां शुभारम्भं कृतवन्तः । कार्यक्रमेषु अनेकानि मधुराणि गीतानि, कानिचन आकर्षकरूपकाणि, सुन्दराणि नृत्यानि च प्रदर्शितानि । विशिष्य बालैः दर्शिताः कार्यक्रमाः सर्वेभ्यः अरोचन्त । बालानां विनोदाय पिन्याटा-क्रीडा आयोजिता आसीत् यत्र संस्कृतशब्दसहित-चाकलेहैः पूरितः वायुगोलः उपयुक्तः । कार्यक्रमाणामभ्यन्तरे एव मेहन्दी-लेपनमपि प्रवर्तमानम् आसीत् । एकः पुस्तकभाण्डारः अपि प्रतिष्ठापितः आसीत् यस्मिन् भिन्नानि पुस्तकानि बालेभ्यश्च प्रौढेभ्यश्च स्तरशः उत्तमरीत्या वर्गीकृतानि आसन् । आहत्य द्विशताधिकाः संस्कृतप्रेमिणः आगत्य संस्कृतवातावरणम् आस्वादितवन्तः । दैवानुग्रहेण, Pittsburgh-नगरस्य देवालयानां (Chinmaya Mission Sanjeevani, Hindu Jain Temple, Ramakrishna Vedanta Ashrama, Sri Shirdi Sai Baba Temple, Sri Venkateshwara temple) सहयोगेन, अनेकेषां कार्यकर्तॄणां परिश्रमेण च इयं त्रिवेणी-संस्कृतमेला सफलतया सञ्जाता ।
|
#SBUSA ProgramsPlease find various programs that were conducted in USA & Canada for the 20th year celebrations. Archives
October 2015
Categories
All
|