#SBUSA20 Samskrita Bharati USA 20th year celebrations
  • Home
  • Podcasts
  • Programs
  • Videos
  • Contact Us

DC Sitar and Flute Jugalbandi

5/9/2015

0 Comments

 
Picture
A mesmerizing Sitar solo followed by Sitar and Flute duo by Sitar Maestro Ustad Shahid Parvez Khan and Flute Surmani Sri Raman Kalyan with Tabla Wizard Amit Kavthekar.

शरदां विंशतिः झटिति गता अनेन संवत्सरेण संस्कृतभारत्याः कार्याणाम् अमेरिकादेशे । कियद्दूरं वयमतिक्रान्ताः स्मः एतावता ! समीचीनं किल तर्हि वयमिमां विंशत्यब्दपूर्तिं सानन्दं सोत्साहं महोत्सवेन आचरामः सर्वत्र इति। वाषिङ्टन् डी.सी.प्रदेशे मे मासे नवमे दिनाङ्के प्रवृत्तः कार्यक्रमोऽपि तस्मिन्नेव महोत्सवे भागभूतः । अयं कार्यक्रमः संस्कृतप्रचारार्थं च धनसंग्रहणार्थं च अस्मिन् प्रदेशे प्रतिवर्षं प्रवर्त्यमानेषु विशेषकार्यक्रमेषु अन्यतमः । सङ्ख्यया षष्ठः च । अस्मिन् वैभवे श्रीमान् एन्. के. मिश्रा महोदयः,भारतीयदूतावासे वाषिङ्टन्नगर्यां कार्यकारि-सामूहिकव्यवहार-मन्त्री इति प्राप्तोपाधिः, अस्माकम् आमन्त्रणं सगौरवं आद्रियत, मुख्यातिथिस्थानम् अवहत् च इति विषयः सन्तोषमावहति ।
 
कार्यक्रमस्य मुख्याङ्गत्वेन विश्रुत-महाविदुषः उस्ताद् शाहिद् पर्वेज़् खान् महोदयस्य सितारवादनम् आयोजितम्। उस्ताद् खान् वर्येण सह श्रीमतः रामन् कल्याण् वर्यस्य वेणुवादनं पृथक्पृथक्, युगपद् जुगल्बन्दीरूपेण च सम्पन्नः। श्रीमान् अमित् कव्तेकार् महोदयः तबलावादनेन जनान् अरञ्जयत्। अपि च अस्मिन् उत्सवे तृतीया स्मारसञ्चिका आविष्कृता मुख्यातिथिना। 
 
अस्मिन् देशे संस्कृतगङ्गायाः पुनरवतरणार्थं संस्कृतभारती गतेभ्यः विंशतिंवषेभ्यः अनवरतं प्रयतते । संस्कृतभारत्याः डी.सी गणेन विंशत्यब्दवैभवम् एतत् सानन्दम् धृत्या युक्त्या समाचरितम् ।


Click to see Photo Album.



0 Comments



Leave a Reply.

    #SBUSA Programs

    Please find various programs that were conducted in USA & Canada for the 20th year celebrations.

    Archives

    October 2015
    September 2015
    May 2015
    March 2015

    Categories

    All
    CA - Irvine
    Canada - Toronto
    NY - New York
    PA - Pittsburgh
    VA/DC/MD

    RSS Feed

Powered by Create your own unique website with customizable templates.